द्वादश ज्योतिर्लिङ्ग स्तोत्रम


|| जय महाकाल || 


 द्वादश ज्योतिर्लिङ्ग स्तोत्रम


अखंड शिव साधना Akhand Shiv Sadhna,






द्वादश ज्योतिर्लिङ्ग स्तोत्रम



द्वादश ज्योतिर्लिङ्ग स्तोत्रम सौराष्ट्रदेशे विशदे.अतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम । भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥ 
श्रीशैलशृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गे.अपि मुदा वसन्तम । तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम ॥ 
अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम । अकालमृत्योः परिरशणार्थं वन्दे महाकालमहासुरेशम ॥ 
कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय । सदैव मान्धातृपुरे वसन्तमोङ्कारमीशं शिवमेकमीडे ॥ 
 पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम । सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥ 

याम्ये सदङ्गे नगरे.अतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः । सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥ महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः । सुरासुरैर्यश महोरगाढ्यैः केदारमीशं शिवमेकमीडे 

॥ सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे । यद्धर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ॥ सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः । श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥
 यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च । सदैव भीमादिपदप्रसिद्दं तं शङ्करं भक्तहितं नमामि ॥
 सानन्दमानन्दवने वसन्त मानन्दकन्दं हतपापवृन्दम । वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥ 

इलापुरे रम्यविशालके.अस्मिन समुल्लसन्तं च जगद्वरेण्यम । वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणम प्रपद्ये ॥ 
ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण । स्तोत्रं पठित्वा मनुजो.अतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥ 

॥ इति द्वादस ज्योतिर्लिङ्गस्तोत्रं संपूर्णम ॥




संपर्क - 09207 283275




कोई टिप्पणी नहीं:

एक टिप्पणी भेजें