- : कामाख्या कवच :-
कामाख्यायै वरदे देवि नील पर्वत वासिनी ।
त्वं देवी जगत माता योनि मुद्रे नमस्तुते ।।
नारद उवाचकवच कीदृशं देव्या महाभयनिवर्तकम् ।
कामाख्यायास्तु तद्ब्रूहि साम्प्रतं मे महेश्वर ।।
महादेव उवाच
शृणुष्व परमं गुह्यं महाभयनिवर्तकम् ।
कामाख्यायाः सुरश्रेष्ठ कवचं सर्व मङ्गलम् ।।
यस्य स्मरणमात्रेण योगिनी डाकिनीगणाः ।
राक्षस्यो विघ्नकारिण्यो याश्चान्या विघ्नकारिकाः ।।
क्षुत्पिपासा तथा निद्रा तथान्ये ये च विघ्नदाः ।
दूरादपि पलायन्ते कवचस्य प्रसादतः ।।
निर्भयो जायते मर्त्यस्तेजस्वी भैरवोपमः ।
समासक्तमनाश्चापि जपहौमादिकर्मसु ।
भवेच्च मन्त्रतन्त्राणां निर्विघ्नेन सुसिद्धये ।।
मां कामाख्या देवी कवच
ओं प्राच्यां रक्षतु मे तारा कामरूपनिवासिनी ।
आग्नेय्यां षोडशी पातु याम्यां धूमावती स्वयम् ।।
. कामाख्या कवच - भाग
नैर्ऋत्यां भैरवी पातु वारुण्यां भुवनेश्वरी ।
वायव्यां सततं पातु छिन्नमस्ता महेश्वरी ।।
कौबेर्यां पातु मे देवी श्रीविद्या बगलामुखी ।
ऐशान्यां पातु मे नित्यं महात्रिपुरसुन्दरी ।।
ऊर्ध्वरक्षतु मे विद्या मातंगी पीठवासिनी ।
सर्वतः पातु मे नित्यं कामाख्या कलिकास्वयम् ।।
ब्रह्मरूपा महाविद्या सर्वविद्यामयी स्वयं ।
शीर्षे रक्षतु मे दुर्गा भालं श्री भवगेहिनी ।।
त्रिपुरा भ्रूयुगे पातु शर्वाणी पातु नासिकाम ।
चक्षुषी चण्डिका पातु श्रोत्रे नीलसरस्वती ।।
मुखं सौम्यमुखी पातु ग्रीवां रक्षतु पार्वती ।
जिह्वां रक्षतु मे देवी जिह्वाललनभीषणा ।।
वाग्देवी वदनं पातु वक्षः पातु महेश्वरी ।
बाहू महाभुजा पातु कराङ्गुलीः सुरेश्वरी ।।
. कामाख्या कवच - भाग
पृष्ठतः पातु भीमास्या कट्यां देवी दिगम्बरी ।
उदरं पातु मे नित्यं महाविद्या महोदरी ।।
उग्रतारा महादेवी जङ्घोरू परिरक्षतु ।
गुदं मुष्कं च मेढ्रं च नाभिं च सुरसुन्दरी ।।
पादाङ्गुलीः सदा पातु भवानी त्रिदशेश्वरी ।
रक्तमासास्थिमज्जादीन्पातु देवी शवासना ।।
महाभयेषु घोरेषु महाभयनिवारिणी ।
पातु देवी महामाया कामाख्यापीठवासिनी ।।
भस्माचलगता दिव्यसिंहासनकृताश्रया ।
पातु श्री कालिकादेवी सर्वोत्पातेषु सर्वदा ।।
रक्षाहीनं तु यत्स्थानं कवचेनापि वर्जितम् ।
तत्सर्वं सर्वदा पातु सर्वरक्षण कारिणी ।।
इदं तु परमं गुह्यं कवचं मुनिसत्तम ।
कामाख्या भयोक्तं ते सर्वरक्षाकरं परम् ।।
. कामाख्या कवच - फलश्रुति
अनेन कृत्वा रक्षां तु निर्भयः साधको भवेत् ।
न तं स्पृशेदभयं घोरं मन्त्रसिद्धि विरोधकम् ।।
जायते च मनः सिद्धिर्निर्विघ्नेन महामते ।
इदं यो धारयेत्कण्ठे बाहौ वा कवचं महत् ।।
अव्याहताज्ञः स भवेत्सर्वविद्याविशारदः ।
सर्वत्र लभते सौख्यं मङ्गलं तु दिनेदिने ।।
यः पठेत्प्रयतो भूत्वा कवचं चेदमद्भुतम् ।
स देव्याः पदवीं याति सत्यं सत्यं न संशयः ।।
श्री गुरुवे नमः
॥ श्री कामाख्या कवच पाठ विधि ॥
जय महाकाल जय अलख आदेश
गुरूजी - +91 9207 283 275

